(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.56. अध्यायः 056
Mahabharata - Karna Parva - Chapter Topics
अश्वत्थाम्ना पाण्ड्यवधः॥ 1 ॥


Mahabharata - Karna Parva - Chapter Text

धृतराष्ट्र उवाच। 8-56-0x(4977)(57797)
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः।
न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम्॥ 8-56-1(57798)
तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम्।
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च॥ 8-56-2(57799)
सञ्जय उवाच। 8-56-3x(4978)
भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान्।
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्सप्त मन्यसे॥ 8-56-3(57800)
यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान्।
न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम्॥ 8-56-4(57801)
तुल्यतांद्रोणभीष्माभ्यामात्मनो यो न मृष्यते।
वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि॥ 8-56-5(57802)
स पाण्ड्योऽर्थपतिश्रेष्ठः सर्वशस्त्रभृतां वरः।
कर्णस्यानीकमहनत्पाशहस्त इवान्तकः॥ 8-56-6(57803)
तदुदीर्णरथाश्वेभं पत्तिप्रवरसङ्कुलम्।
कुलालचक्रवद्धान्तं पाण्ड्येनाभ्याहतं बलात्॥ 8-56-7(57804)
व्यश्वसूतध्वजरथान्विप्रयुक्तयुगान्रथान्।
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत्॥ 8-56-8(57805)
द्विरदान्प्रवरारोहान्विपताकायुधध्वजान्।
स पादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा॥ 8-56-9(57806)
स शक्तिप्रासतूणीरानश्वारोहान्हयानपि।
पुलिन्दखसबाह्लीकनिषादान्ध्रककुन्तलान्॥ 8-56-10(57807)
दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान्।
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून्॥ 8-56-11(57808)
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्डयमाहवे।
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात्॥ 8-56-12(57809)
आभाष्य चैनं मधुरमभीतं तमभीतवत्।
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत्॥ 8-56-13(57810)
राजन्कमलपत्राक्ष प्रधानायुधवाहन।
वज्रसंहननप्रख्य प्रख्यातबलपौरुष॥ 8-56-14(57811)
मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः।
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम्॥ 8-56-15(57812)
शरवर्षैर्महावेगैरमित्रानभिवर्षतः।
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे॥ 8-56-16(57813)
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्।
मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः॥ 8-56-17(57814)
महता रथघोषेण दिवं भूमिं च नादयन्।
वर्षान्ते सस्यां सूर्यो भाभिरादीपयन्निव॥ 8-56-18(57815)
संस्पृशानः शरैः पूर्णौ तूणी चाशीविषोपमैः।
मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा॥ 8-56-19(57816)
एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः।
कर्णिना द्रोणतनयं विव्याध मलयध्वजः॥ 8-56-20(57817)
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः।
मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः॥ 8-56-21(57818)
ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः।
गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत्॥ 8-56-22(57819)
तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैः शरैः।
चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन्॥ 8-56-23(57820)
अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः।
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः॥ 8-56-24(57821)
दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा।
प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान्॥ 8-56-25(57822)
ततः शरसहस्राणि प्रेषयामास वै द्विजः।
इषुसम्बाधमाकाशमकरोद्दिश एव च॥ 8-56-26(57823)
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः।
जानानोप्यक्षयान्पाण्ड्यो शातयत्पुरुषर्षभः॥ 8-56-27(57824)
प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः।
चक्ररक्षौ रणे तस्य प्राणुदन्निशितैः शरैः॥ 8-56-28(57825)
अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः।
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा॥ 8-56-29(57826)
अष्टावष्टगवान्यूहुः शकटानि यदायुधम्।
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष॥ 8-56-30(57827)
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्।
ये ये ददृशिरे रूपं विसंज्ञाः प्रायशोऽभवन्॥ 8-56-31(57828)
आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत्।
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महिम्॥ 8-56-32(57829)
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम्।
वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यातिलोऽनदत्॥ 8-56-33(57830)
तस्य नानदतः केतुं चन्दनागुरुरूषितम्।
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत्॥ 8-56-34(57831)
सूतमेकेषुणा हत्वा महाजलदनिःस्वनम्।
धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम्॥ 8-56-35(57832)
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च।
प्राप्तमप्यहितं द्रौणिर्नाहनद्युद्धतृष्णया॥ 8-56-36(57833)
हतेश्वरो दन्तिवरः सुकल्पित--
सत्वराभिसृष्टः प्रतिशब्दगो बली।
तमाद्रवद्द्रौणिशराहतस्त्वरन्
जवेन कृत्वा प्रतिहस्तिगर्जितम्॥ 8-56-37(57834)
तं वारणं वारणयुद्धकोविदो
द्विपोत्तमं पर्वतसानुसन्निभम्।
सम्भ्यतिष्ठन्मलयध्वजस्त्वर--
न्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा॥ 8-56-38(57835)
स तोमरं भास्कररश्मिवर्चसं
बलास्त्रसर्गोत्तमयत्नमन्युभिः।
ससर्ज शीघ्रं परिपीडयन्गजं
गुरोः सुताय द्रविडेश्वरो नदन्॥ 8-56-39(57836)
मणिप्रवेकोत्तमवज्रहाटकै--
रलङ्कृतं चांशुकमाल्यमौक्तिकैः।
हतो मयासीत्यसकृन्मुदा नद--
न्पराभिनद्द्रौणिवराङ्गभूषणम्॥ 8-56-40(57837)
तदर्कचन्द्रग्रहपावकत्विषं
भृशाभिघातात्पतितं विघूर्णितम्।
महेन्द्रवज्राभिहतं महास्वनं
यथाऽद्रिशृङ्गं भरणीतले तथा॥ 8-56-41(57838)
ततः प्रजज्वाल परेण मन्युना'
पादाहतो नागपतिर्यथा तथा।
समाददे चान्तकदण्डसन्निभा--
निषूनमित्रान्तकरांश्चतुर्दश॥ 8-56-42(57839)
द्विपस्य पादाग्रकरान्स पञ्चभि--
र्नृपस्य बाहू च शिरोऽथ च त्रिभिः।
जघान पड्भिः पडृतूपमत्विषः
स पाण्ड्यराजानुचरान्महारथान्॥ 8-56-43(57840)
सुदीर्घवृत्तौ वरचन्दनोक्षितौ
सुवर्णमुक्तामणिवज्रभूषणौ।
भुजौ धरायां पतितौ नृपस्य तौ
विचेष्टतुस्तार्क्ष्यहताविवोरगौ॥ 8-56-44(57841)
शिरश्च तत्पूर्णशशिप्रभाननं
सरोषताम्रायतनेत्रमुन्नसम्।
क्षितावपि भ्राजति तत्सकुण्डलं
विशाखयोर्मध्यगतः शशी यथा॥ 8-56-45(57842)
[स तु द्विपः पञ्चभिरुत्तमेषुभिः
कृतः षडंशश्चतुरो नृपस्त्रिभिः।
कृतो दशांशः कुशलेन युध्यता
यथा हविस्तद्दश दैवतं तथा॥ 8-56-46(57843)
स पादशो राक्षसभोजनान्बहून्
प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान्।
स्वधामिवाप्य ज्वलनः पितृप्रिय--
स्ततः प्रशान्तः सलिलप्रवाहतः]॥ 8-56-47(57844)
समाप्तविद्यं तु गुरोः सुतं नृपः
समाप्तकर्माणमुपेत्य ते सुतः।
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा
जिते बलौ विष्णुमिवामरेश्वरः॥ ॥ 8-56-48(57845)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्पञ्चाशोऽध्यायः॥ 56 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-56-10 पाण्ड्यः व्यसूनकरोदिति द्वयोः सम्बन्धः॥ 8-56-13 अनुस्मृत्य ह्याभीतवत् इति ख.पाठः। अनुसृत्य हि भीतवत् इति क.ङ.पाठः॥ 8-56-16 वर्षतः मत् मत्तः॥ 8-56-17 प्रमथसे प्रमथ्नासि॥ 8-56-20 मलयवत् कृत्रिमो ध्वजो यस्य। मलयध्वज इति प्रवीरस्यैव नामान्तरं वा॥ 8-56-22 गत्या दशम्या। उन्मुख्यभिमुखी तिर्यङ् मन्दा गोमूत्रिका ध्रुवा। स्खलित यमकाक्रान्ता क्रुष्टेतीषुगतीर्विदुः। दशमीगतिस्तु शिरसा सह दूरपातिनी अतिकुष्टानाम। तया गत्या॥ 8-56-29 पूषानुजः पर्जन्यः॥ 8-56-30 अष्टवृषभवाह्यानि अष्टौ शकटानि यादयुधसम्भारं ऊहुः वहन्ति तत्सर्वं अह्नोऽष्टमभागेन यामार्धेन क्षीणगित्यर्थः॥ 8-56-37 हतेश्वरो यः कश्चित् तं पाण्ड्यम्॥ 8-56-38 मलयध्वजः पाप्डस्तं यदृच्छयागतं वारणं समभ्यतिष्ठत्॥ 8-56-39 बलेन अस्त्रसर्गे य उत्तमो यत्नस्तेन मन्युना च तैः। परिपीडयन् अङ्कुशेन कोपयन्॥ 8-56-40 द्रौणेः वराङ्गभूष किरिटम्॥ 8-56-42 इषून् समाददे द्रौणिरिति शेषः॥ 8-56-46 चतुरः चतुरंशः। एवं स गजो दशधाभक्तो यथा दशहविष्कायामिष्टौ पिष्टपिण्डो दशधा क्रियते तथेत्यर्थः॥ 8-56-47 पाण्ड्योऽश्वादीन् पादशः प्रदाय खण्डयित्वा प्रशान्तः द्रौणिबाणैरिति शेषः। यथा स्वधां प्रेतशरीररूपं हविः प्राप्य पितृप्रियो ज्वलनः श्मशानाग्निः जलेन शाम्यति तद्वदित्यर्थः॥ 8-56-48 समाप्तविद्यं सम्यगाप्तविद्यम्। समाप्तकर्माणं कृतकृत्यम्॥ 8-56-56 षट्पञ्चाशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.